||Sundarakanda ||
|| Sarga 26||( Slokas in Devanagari) )
हरिः ओम्
Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English
सुन्दरकाण्ड्
अथ षड्विंशस्सर्गः
प्रसक्ताश्रुमुखी त्येवं ब्रुवन्ती जनकात्मजा।
अधोमुखमुखी बाला विलप्तुमुपचक्रमे॥1||
उन्मत्तेव प्रमत्तेव भ्रान्तचित्तेव शोचती।
उपावृता किशोरीव विवेष्ठन्ती महीतले॥2||
राघवस्य प्रमत्तस्य रक्षसा कामरूपिणा।
रावणेन प्रमध्याऽहमानीता क्रोशती बलात्॥3||
राक्षसी वशमापन्ना भर्त्स्यमाना सुदारुणम्।
चिंतयन्ती सुदुःखार्ता नाहं जीवितु मुत्सहे॥4||
नहि मे जीवितैरर्थो नैवार्धैर्न च भूषणैः।
वसन्त्या राक्षसी मध्ये विना रामं महारथम्॥ 5||
अश्मसार मिदं नूनं अथवा प्यजरामरम्।
हृदयं मम येनेदं न दुःखे नावशीर्यते॥6||
धिज्ञ्मामनार्य मसतीं या हं तेन विनाकृता।
मुहूर्तमपि रक्षामि जीवितं पाप जीविता॥7||
का च मे जीविता श्रद्धा सुखेवा तं प्रियं विना।
भर्तारं सागरान्तायाः वसुधायाः प्रियं वदम्॥8||
भिद्यतां भक्ष्यतां वापि शरीरं विशृजाम्यहम्।
न चाप्यहं चिरं दुःखं सहेयं प्रियवर्जिता॥9||
चरणे नापि सव्येन न स्पृशेयं निशाचरम्।
रावणं किं पुनरहं कामयेयं विगर्हितम्॥10||
प्रत्याख्यातं न जानाति नात्मानं नात्मनः कुलम्।
यो नृशंस स्वभावेन मां प्रार्थयितुमिच्छति॥11||
छिन्ना भिन्ना विभक्ता वा दीप्ते वाग्नौ प्रदीपिता।
रावणं नोपतिष्ठेयं किं प्रलापेन वश्चिरम्॥12||
ख्यातः प्राज्ञः कृतज्ञश्च सानुक्रोशश्च राघवः।
सद्वृत्तो निरनुक्रोशः शङ्के मद्भाग्य संक्षयात्॥13||
राक्षसानां सहस्राणि जनस्थाने चतुर्दशः।
येनै केन निरस्तानि स मां किं नाभिपद्यते॥14||
निरुद्धा रावणे नाहं अल्पवीर्येण रक्षसा।
समर्थः खलु मे भर्ता रावणं हन्तुमाहवे॥15||
विराधो दण्डकारण्ये येन राक्षस पुंगवः।
रणे रामेण निहतः स मां किं नाभिपद्यते॥16||
कामं मध्ये समुद्रस्य लङ्केयं दुष्प्रधर्षणा।
न तु राघव बाणानां गतिरोधी ह विद्यते॥17||
किन्नु तत्कारणं येन रामो धृढ पराक्रमः।
रक्षसापहृतां भार्या मिष्टां नाभ्यवपद्यते॥18||
इहस्थां मां न जानीते शङ्के लक्ष्मण पूर्वजः।
जानन्नपि हि तेजस्वी धर्षणं मर्षयिष्यति॥19||
हृतेति योऽधिगत्वा मां राघवाय निवेदयेत् ।
गृधराजोऽपि स रणे रावणेन निपातितः॥20||
कृतं कर्म महत्तेन मां तथाऽभ्यवपद्यता।
तिष्ठता रावणद्वन्द्वे वृद्धेनापि जटायुषा॥21||
यदि मा मिह जानीयात् वर्तमानं स राघवः।
अद्य बाणै रभिक्रुद्धः कुर्याल्लोकमराक्षसम्॥22||
विधमेच्छ पुरीं लङ्कां शोषयेच्छ महोदधिम्।
रावणस्य च नीचस्य कीर्तिं नाम च नाशयेत्॥23||
ततो निहता नाधानां राक्षसीनां गृहे गृहे।
यथा हमेवं रुदती तदा भूयो नसंशयः॥24||
अन्विष्य रक्षसां लङ्कां कुर्याद्रामः सलक्ष्मणः।
न हि ताभ्यां रिपुर्दृष्टो मुहूर्तमपि जीवति॥25||
चिताधूमाकुलपथा गृधमण्डल संकुला ।
अचिरेण तु लङ्केयं श्मशान सदृशीभवेत्॥26||
अचिरेणैव कालेन प्राप्स्याम्येव मनोरथम्।
दुष्प्रस्थानोऽय माख्याति सर्वेषां वो विपर्ययम्॥27||
यादृशा नीह दृश्यंते लङ्काया मशुभानि वै।
अचिरेण तु कालेन भविष्यति हतप्रभा॥28||
नूनं लङ्का हते पापे रावणे राक्षसाधमे।
शोषं यास्यति दुर्धर्षा प्रमदा विधवा यथा॥29||
पुण्योत्सवसमुत्था च नष्टभर्त्री स राक्षसी।
भविष्यति पुरी लंका नष्टभर्त्री यथाऽङ्गना॥30||
नूनं राक्षसकन्यानां रुदन्तीनां गृहे गृहे।
श्रोष्यामि न चिरादेव दुःखार्ताना मिह ध्वनिम्॥31||
सान्धकारा हतद्योता हत राक्षसपुङ्गवा।
भविष्यति पुरी लङ्का निर्दग्धा रामसायकैः॥32||
यदि नाम स शूरो मां रामो रक्तान्तलोचनः।
जानीयाद्वर्तमानां हि रावणस्य निवेशने॥33||
अनेन तु नृशंसेन रावणे नाधमेन मे।
समयो यस्तु निर्दिष्टः तस्यकालोऽयमागतः॥34||
स च मे विहितो मृत्युरस्मिन् दुष्टे न वर्तते।
अकार्यं ये न जानन्ति नैरृतां पापकारिणः।
अधर्मात्तु महोत्पातो भविष्यति हि सांप्रतम् ॥35||
नैते धर्मं विजानन्ति राक्षसाः पिशिताशनाः।
ध्रुवं मा प्रातराशार्थे राक्षसः कल्पयिष्यति॥36||
साऽहं कथम् करिष्यामि तं विना प्रियदर्शनम्।
रामं रक्तान्तनयनं अपस्यन्ती सुदुःखिता॥37||
यदि कश्चित्प्रदातामे विषस्याद्य भवेदिह।
क्षिप्रं वैवस्वतं देवं पश्येयं पतिना विना॥38||
ना जाना ज्जीवतीं रामः स मां लक्ष्मणपूर्वजः।
जानंतौ तौ न कुर्यातां नोर्व्यां हि मम मार्गणम्॥39||.
नूनं ममैव शोकेन स वीरो लक्ष्मणाग्रजः।
देवलोक मितोयातः त्यक्त्वा देहं महीपते॥40||
धन्या देवाः सगन्धर्वाः सिद्धाश्चपरमर्षयः।
मम पश्यन्ति ये नाथं रामं राजीव लोचनम्॥41||
अथवा किन्नु तस्यार्थो धर्मकामस्य धीमतः।
मया रामस्य राजर्षेर्भार्यया परमात्मनः॥42||
दृश्यमाने भवेत्प्रीतिः सौहृदं नास्त्यपश्यतः।
नाशयंति कृतघ्नास्तु न रामो नाशयिष्यति॥43||
किं नु मे नगुणाः केचित् किंवा भाग्यक्षयो मम।
याsहं सीदामि रामेण हीना मुख्येन भामिनी॥44||
श्रेयो मे जीवितान् मर्तुं विहीनया महात्मनः।
रामादक्लिष्ट चारित्रात् शूरात् शत्रुनिबर्हणात्॥45||
अथवा न्यस्तशस्त्रौ तौ वने मूलफलाशिनौ।
भ्रातरौ हि नरश्रेष्टौ संवृतौ वनगोचरौ॥46||
अथवा राक्षसेन्द्रेण रावणेन दुरात्मना।
छद्मना घातितौ शूरौ भ्रातरौ रामलक्ष्मणौ॥47||
साऽहमेवं गते काले मर्तु मिच्छामि सर्वथा।
न च मे विहितो मृत्यु रस्मिन् दुःखेऽपि वर्तति॥48||
धन्याः खलु महात्मानो मुनयः त्यक्त किल्बिषाः।
जितात्मानो महाभागा येषां न स्तः प्रियाप्रिये॥49||
प्रियान्न संभवेत् दुःखं अप्रियादधिकं भयं।
ताभ्यां हि ये नियुज्यंते नमस्तेषां महात्मनाम्॥50||
साऽहं त्यक्ता प्रियार्हेण रामेण विदितात्मना ।
प्राणां स्त्यक्ष्यामि पापस्य रावणस्य गता वशम्॥51||
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुन्दरकाण्डे षड्विंशस्सर्गः॥
॥ ओम् तत् सत्॥
|| Om tat sat ||